|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.42. अध्यायः 042
अथानुगीतापर्व-2
Mahabharata - Ashvamedhika Parva - Chapter Topics
ब्रह्मणा महर्षीन्प्रत्यहङ्कारतत्वाद्भूतादिसृष्टिप्रकारकथनम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
ब्रह्मोवाच।
अहङ्कारात्प्रसूतानि महाभूतानि पञ्च वै।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्॥ 14-42-1(93490)
तेषु भूतानि मुह्यन्ति महाभूतेषु पञ्चसु।
शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च॥ 14-42-2(93491)
महाभूतविकारान्ते प्रलये प्रत्युपस्थिते।
सर्वप्राणभूतां धीरा महदुत्पद्यते भयम्॥ 14-42-3(93492)
यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते।
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम्॥ 14-42-4(93493)
ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे।
स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन॥ 14-42-5(93494)
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः।
क्रियाः करणयुक्ताः स्युरनित्या मोहसंज्ञिताः॥ 14-42-6(93495)
लोभप्रजनसम्भूता निर्विशेषा ह्यकिञ्चनाः।
मांसशोणितसङ्घाता अन्योन्यस्योपजीविनः॥ 14-42-7(93496)
बहिरात्मान इत्येते दीनाः कृपणजीविनः।
प्राणापानावुदानश्च समानो व्यान एव च॥ 14-42-8(93497)
अन्तरात्मनि चाप्येते नियताः पञ्च वायवः।
वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत्॥ 14-42-9(93498)
त्वग्घ्राणश्रोत्रचक्षूंषि रसना वाक्च संयताः।
विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी॥ 14-42-10(93499)
अष्टौ यस्याग्नयो ह्येते दहन्तेऽहङ्क्रियाः सदा।
स तद्ब्रह्म शुभं याति तस्माद्भूयो न विद्यते॥ 14-42-11(93500)
एकादश च यान्याहुरिन्द्रियाणि विशेषतः।
अहङ्कारात्प्रसूतानि तानि वक्ष्यामि नामतः॥ 14-42-12(93501)
श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी।
पादौ पायुरुपस्थश्च हस्तौ वाग्दशमी भवेत्॥ 14-42-13(93502)
इन्द्रियग्राम इत्येष मन एकादशं भवेत्।
एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते॥ 14-42-14(93503)
बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च।
श्रोत्रादीन्यपि पञ्चाहुर्बुद्धियुक्तानि तत्त्वतः॥ 14-42-15(93504)
अविशेषाणि चान्यानि कर्मयुक्तानि यानि तु।
उभयत्र मनो ज्ञेयं बुद्धिस्तु द्वादशी भवेत्॥ 14-42-16(93505)
इत्युक्तानीन्द्रियाण्येतान्येकादश यथाक्रमम्।
मन्यन्ते कृतमित्येवं विदित्वा तानि पण्डिताः॥ 14-42-17(93506)
`त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते।'
स्थलमापस्तथाऽऽकाशं जन्म चापि चतुर्विधम्॥ 14-42-18(93507)
अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च।
चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते॥ 14-42-19(93508)
अपराण्यथ भूतानि खेचराणि तथैव च।
अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान्॥ 14-42-20(93509)
स्वेदजाः कृमयः प्रोक्ता जन्तवश्च यथाक्रमम्।
जन्मद्वितीयमित्येतज्जघन्यतरमुच्यते॥ 14-42-21(93510)
भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात्।
उद्भिज्जानि च तान्याहुर्भूतानि द्विजसत्तमाः॥ 14-42-22(93511)
द्विपादबहुपादानि तिर्यग्गतिमतीनि च।
जरायुजानि भूतानि विकृतान्यपि सत्तमाः॥ 14-42-23(93512)
द्विविधा खलु विज्ञेया ब्रह्मयोनिः सनातना।
तपः कर्म च यत्पुण्यमित्येष विदुषां नयः॥ 14-42-24(93513)
विविधं कर्म विज्ञेयमिज्या दानं च तन्मखे।
वेदस्याध्ययनं पुण्यमिति वृद्धानुशासनम्॥ 14-42-25(93514)
एतद्यो वेत्ति विधिवत्स मुक्तः स्याद्द्विजर्षभाः।
विमुक्तः सर्वपापेभ्य इति चैव निबोधत॥ 14-42-26(93515)
`अतः परं प्रवक्ष्यामि सर्वं विविधमिन्द्रियम्॥' 14-42-27(93516)
आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते।
अधिभूतं तथा शब्दो दिशश्चात्राधिदैवतम्॥ 14-42-28(93517)
द्वितीयं मारुतं भूतं त्वगध्यात्मं च विश्रुतम्।
स्प्रष्टव्यमधिभूतं तु विद्युत्तत्राधिदैवतम्॥ 14-42-29(93518)
तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममिष्यते।
अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम्॥ 14-42-30(93519)
चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते।
अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम्॥ 14-42-31(93520)
पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममुच्यते।
अधिभूतं तथा गन्धो वायुस्तत्रादिदैवतम्॥ 14-42-32(93521)
एषु पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः।
अतः परं प्रवक्ष्यामि सर्वं त्रिविधमिन्द्रियम्॥ 14-42-33(93522)
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्वदर्शिनः।
अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम्॥ 14-42-34(93523)
अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते।
अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम्॥ 14-42-35(93524)
प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते।
अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः॥ 14-42-36(93525)
हस्तावध्यात्ममित्याहुरद्यात्मविदुषो जनाः।
अधिभूतं च कर्माणि शक्रस्तत्राधिदैवतम्॥ 14-42-37(93526)
वैश्वदेवी मनःपूर्वा वागध्यात्ममिहोच्यते।
वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम्॥ 14-42-38(93527)
अध्यात्मं मन इत्याहुः पञ्चभूतात्मचारकम्।
अधिभूतं च सङ्कल्पश्चन्द्रमाश्चाधिदैवतम्॥ 14-42-39(93528)
अहङ्कारस्तथाऽध्यात्मं सर्वसंसारकारणम्।
अभिमानोऽधिभूतं च रुद्रस्तत्राधिदैवतम्॥ 14-42-40(93529)
अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी।
अधिभूतं तु विज्ञेयमहस्तत्राधिदैवतम्॥ 14-42-41(93530)
यथावदध्यात्मविधिरेष वः कीर्तितो मया।
ज्ञानमस्य हि धर्मज्ञाः प्राप्तं ज्ञानवतामिह॥ 14-42-42(93531)
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च।
सर्वाण्येतानि संधाय मनसा सम्प्रधारयेत्॥ 14-42-43(93532)
क्षीणे मनसि सर्वस्मिन्न जन्मसुखमिष्यते।
ज्ञानसम्पन्नसत्त्वानां तत्सुखं विदुषां मतम्॥ 14-42-44(93533)
अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम्।
निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा॥ 14-42-45(93534)
गुणागुणमनासङ्गमेकचर्यमनन्तरम्।
एतद्ब्राह्मणजं वृत्तमाहुरेकपदं सुखम्॥ 14-42-46(93535)
विद्वान्कूर्म इवाङ्गानि कामान्संहृत्य सर्वशः।
विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा॥ 14-42-47(93536)
कामानात्मनि संयम्य क्षीणतृष्णः समाहितः।
सर्वभूतसुहृन्मैत्रो ब्रह्मभूयाय कल्पते॥ 14-42-48(93537)
इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम्।
मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते॥ 14-42-49(93538)
यथाऽग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते।
तथेन्द्रियनिरोधेन महानात्मा प्रकाशतदे॥ 14-42-50(93539)
यदा पश्यति भूतानि प्रसन्नात्माऽत्मनो हृदि।
स्वयंज्योतिस्तदासूक्ष्मात्सूक्ष्मं प्राप्नोत्यनुत्तमम्॥ 14-42-51(93540)
अग्नी रूपं रसं स्रोतो वायुः स्पर्शनमेव च।
मही गन्धधरा घ्राणमाकाशः श्रवणं तथा।
`दृश्यमादित्यमेवाहुरध्यात्मविदुषो जनाः॥' 14-42-52(93541)
रोगशोकसमाविष्टं पञ्चस्रोतःसमावृतम्।
पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम्॥ 14-42-53(93542)
रजस्वलमथादृश्यं त्रिगुणं सप्तधातुकम्।
संसर्गाभिरतं मूढं शरीरमिति धारणा॥ 14-42-54(93543)
दुश्चरं जीवलोकेऽस्मिन्सत्वं प्रति समाश्रितम्।
एतदेव हि लोकेऽस्मिन्कालचक्रं प्रवर्तते॥ 14-42-55(93544)
एतन्महार्णवं घोरमगाधं मोहसंझितम्।
विसृजन्संक्षिपेच्चैव मोहयन्स्वापयञ्जगत्॥ 14-42-56(93545)
कामं क्रोधं भयं लोभमभिद्रोहमथानृतम्।
इन्द्रियाणां निरोधेन सतस्त्यजति दुस्त्यजान्॥ 14-42-57(93546)
यस्यैते निर्जिता लोके त्रिगुणाः पञ्चधातवः।
व्योम्नि तस्य परं स्थानमानन्तमथ लक्ष्यते॥ 14-42-58(93547)
पञ्चेन्द्रियमहाकूलां मनःस्रोतोभयावहाम्।
नदीं मोहह्रदां तीर्त्वा कामक्रोधावुभौ जयेत्॥ 14-42-59(93548)
स सर्वदोषनिर्मुक्तस्ततः पश्यति तत्परम्।
मनो मनसि सन्धाय पश्यन्नात्मानमात्मनि॥ 14-42-60(93549)
सर्ववित्सर्वभूतेषु द्रक्ष्यत्यात्मानमात्मनि।
एकधा बहुधा चैव विकुर्वाणस्ततस्ततः॥ 14-42-61(93550)
ध्रुवं पश्यति रूपाणि दीपाद्दीपशतं यथा।
स वै विष्णुश्च मित्रश्च वरुणोऽग्निः प्रजापतिः॥ 14-42-62(93551)
स हि धाता विधाता च स प्रभुः सर्वतोमुखः।
हृदयं सर्वभूतानां महानात्मा प्रकाशते॥ 14-42-63(93552)
तं विप्रसङ्घाश्च सुरासुराश्च
यक्षाः पिशाचाः पितरो वयांसि।
रक्षोगणा भूतगणाश्च सर्वे
महर्षयश्चैव सदा स्तुवन्ति॥ ॥ 14-42-64(93553)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्विचत्वारिंशोऽध्यायः॥ 42 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-42-7 लोकप्रजनसंयुक्ता इति क.ट.पाठः॥ 7-42-9 इत्युक्ता इति क.पाठः॥ 7-42-25 जातस्याध्ययनं पुण्यमिति झ.पाठः॥ 7-42-64 पितरश्च सिद्धा इति क.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|